Sbg 8.3 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।8.3।।अक्षरमिति। बृहत्त्वात् बृंहत्त्वात् बृंहकत्वाच्च परं ब्रह्म। अत एव अध्यात्मशब्दवाच्यं यतः स्वः अनिवृत्तिधर्मा (N निवृत्तिधर्मा K अनिवृत्तधर्मा) चैतान्याख्यो ( चैतन्यभावः) भावः। तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्यलक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात् बहिर्भावावभासनात्मा (N -- भासनात्सः) बहिर्भूतभावान्तरावभासनात्मा (S -- भावान्तरभासनात्मा यो विसर्गः) च यो विसर्गः क्रमेण भूतानां ब्रह्मादिप्रमातृ़णां भावानां जडानामुद्भवकारी जडाजडवैचित्र्यनिर्भासकः। तथा भूतभावस्य विगलितसकलवितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति [स कर्मसंज्ञितः]।