Sbg 8.3 scanand
Sanskrit Commentary By Sri Anandgiri ।।8.3।।व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतमवतारयति -- एषामिति। क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुरभीष्टप्रतिपत्तिसौकर्यं सिध्यतीति बुध्यमानो विशिनष्टि -- यथाक्रममिति। तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनमुदाहरति -- अक्षरमिति। किं तद्ब्रह्मेति प्रश्नस्य प्रतिवचनम् -- अक्षरं ब्रह्म परममिति। तत्राक्षरशब्दस्य निरुपाधिके परस्मिन्नात्मन्यविनाशित्वव्याप्तिमत्त्वसंबन्धात्प्रवृत्तिं व्युत्पादयति -- अक्षरमित्यादिना। कथं पुनरक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगमन्तरेण व्युत्पत्त्या प्रवृत्तिराश्रीयते व्युत्पत्तेरर्थान्तरेऽपि संभवादित्याशङ्क्य द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मादन्यस्मिन्नसंभवात्तथाविधप्रशासनकर्तृत्वेन श्रुतमक्षरं ब्रह्मैवेत्याह -- एतस्येति। रूढिर्योगमपहरतीति न्यायादोंकारे वर्णसमुदायात्मन्यक्षरशब्दस्य रूढ्या प्रवृत्तिराश्रयितुमुचितेत्याशङ्क्याह -- ओंकारस्येति। प्रतिवचनोपक्रमे प्रक्रान्तमोंकाराख्यमक्षरमेवोत्तरत्र विशेषितं भविष्यतीत्याशङ्क्य परमविशेषणविरोधान्न तस्य प्रक्रमः संभवतीत्याह -- परममिति चेति। किमध्यात्ममिति प्रश्नस्योत्तरं स्वभावोऽध्यात्ममित्यादि। तद्व्याचष्टे -- तस्यैवेति। स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्रामः स चात्मनि देहेऽहंप्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृह्णाति -- स्वो भाव इति। एवं विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यत इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं कथयति -- स्वभाव इति। तस्यैव परस्येत्यादिनोक्तं न विस्मर्तव्यमिति विशिनष्टि -- परमार्थेति। परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावःमनुभवतितत्सृष्ट्वा तदेवानुप्राविशत् इति श्रुतेरित्यर्थः। किं कर्मेति प्रश्नस्योत्तरमुपादत्ते -- भूतेति। भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति -- भूतानामिति। भावः सद्भावो वस्तुभावोऽतएव भूतवस्तूत्पत्तिकर इति वक्ष्यति। वैदिकं कर्मात्रोक्तविशेषणं कर्मशब्दितमिति विसर्गशब्दार्थं दर्शयन्विशदयति -- विसर्ग इत्यादिना। कथं पुनर्यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वमित्याशङ्क्य अग्नौ प्रास्ताहुतिः इत्यादिस्मृतिमनुस्मृत्याह -- एतस्माद्धीति।