Sbg 8.2 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।8.1 -- 8.2।।अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह -- मरणे ति। गम्यत इति गतिः। आदिपदेन मार्गादिकम्। मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत्तथोक्तम्। कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः। उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् तेनानन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात्।