Sbg 8.24 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।8.24।।तत्रानावृत्तिमार्गमाह -- अग्निरिति। अग्निज्योतिःशब्दाभ्यांतेऽर्चिषमभिसंभवन्ति इति श्रुत्युक्तार्चिरभिमानिनी देवतोपलक्ष्यते। अहरिति दिवसाभिमानिनी। शुक्ल इति शुक्लपक्षाभिमानिनी। उत्तरायणरूपाः षण्मासा इत्युत्तरायणाभिमानिनी। एतच्चान्यासामपि श्रुत्युक्तानां संवत्सरदेवलोकादिदेवतानामुपलक्षणार्थम्। एवंभूतो यो मार्गस्तत्र प्रयाता गता भगवदुपासका जनाः ब्रह्म प्राप्नुवन्ति। यतस्ते ब्रह्मविदः। तथाच श्रुतिःतेऽर्चिषमभिसंभवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकम् इति। नहि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिर्वा क्वचिदस्तिन तस्य प्राणा उत्क्रामन्ति इति श्रुतेः।