Sbg 8.23 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।8.23।।एवं च सतताभ्यासेन येषां क्लेशं विनैव भगवदाप्तिः तेषां वृत्तमुक्तम्। इदानीम् (NK (n) इदानीं पुनः) उत्क्रान्त्या येऽपवर्गं भोगं चेच्छन्ति तेषां कश्चिद्विशेष उच्यते -- यत्रेति। अनावृत्तिः मोक्षः। आवृत्तिः भोगाय।