Sbg 8.20 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।8.20।। तस्माद् अव्यक्ताद् अचेतनप्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावः अन्यो ज्ञानैकाकारतया तस्माद् विसजातीयः अव्यक्तः केनचित् प्रमाणेन न व्यज्यत इति अव्यक्तः स्वसंवेद्यसाधारणाकार इत्यर्थः। सनातनः उत्पत्तिविनाशानर्हतया नित्यः। यः सर्वेषु वियदादिषु भूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितो अपि न विनश्यति।