Sbg 8.1 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।8.1।।ब्रह्मकर्मादिकं प्राज्ञैर्विज्ञेयं नास्मदादिभिः। इति जिज्ञासया पार्थः सन्दिहानोऽथ पृच्छति।।1।।अर्जुन उवाच -- किं तद्ब्रह्मेति द्वाभ्याम्। पूर्वेषां यत् ज्ञेयतयोक्तं तद्ब्रह्म किमध्यात्मं कर्म वा किमिति वक्तव्यम् अग्रिमाणां च ज्ञेयमधिभूतमधिदैवं च किम्।