Sbg 8.18 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।8.18।। --, अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले। तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ।।अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम् बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैराग्यप्रदर्शनार्थं च इदमाह --,