Sbg 8.17 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।8.17।।ननु कथमेवमुच्यतेआब्रह्मभुवनात् इति सत्यं ब्रह्मणोऽपि कालप्रमितत्वादित्याह -- सहस्रमिति।,अत्र चतुःपदं योजनीयंचतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति वाक्यात्। तथा चैवं मानेन ब्रह्मणो द्विपरार्द्धपर्यंते लय इत्युक्तम्।