Sbg 8.17 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।8.17।।आवृत्तिभाजां कालपरिच्छेदमाह -- सहस्रेति। युगशब्दोऽत्र चतुर्युगपर्यायः।चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते इति पुराणान्तरदर्शनात् सहस्रं चतुर्युगानि पर्यन्तोऽवसानं यस्य। चतुर्युगसहस्रं ब्रह्मणो दिनं रात्रिरपि तावतीत्याह -- रात्रिमिति। अत्रापि चतुर्युगसहस्राणां अन्तो भवति तां चतुर्युगसहस्रान्ताम्। ते प्रसिद्धा अहोरात्रविदो जना विदुः।