Sbg 8.17 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।8.17।।ब्रह्मलोकसहति लोगाः पुनरावर्तिन इत्युक्तं तेषां कालपरिच्छिन्नत्वादिति हेतुनोपपादयति। संहस्त्रं युगानि पर्यन्तं पर्यवासनं यस्याह्नस्तदहः सहस्त्रयुगपर्यन्तम्। युगशब्दोऽत्र चतुर्युगपरः।चतुर्युगसहस्त्रं तु ब्राह्मणो दिनमुच्यते इति पुराणोक्तेः। चतुर्युगपरिमाणं तु मनुष्याणां यद्वर्ष तदेव देवानामहोरात्रं तादृशैरहोरात्रैः पक्षादिक्रमेण द्वादशभिर्वर्षसहस्त्रैश्चतुर्युगं भवति। तत्र वर्ष चतुः सहस्त्रं कृतयुगं त्रिसहस्त्रंत्रैता द्विसहस्त्रं द्वापरं एकसहस्त्रं कलिः अष्टशतं कृतयुगस्य पूर्वोत्तरसंध्ये एवमग्रेपि युगऋभेण षट्चतुर्द्विशतसंख्याकसंध्याक्रमो बोध्यः। सहस्त्रयुगपर्यन्तं ब्रह्मणः प्रजापतेर्विराजोऽहर्दिनं विदुः। रात्रिमपि सहस्त्रयुगमन्तो यस्यास्तामहः परिमाणामेव विदुः। के वदुरित्याह। तेऽरोरात्राविदो ब्रह्मणो दिनरात्रिकालसंख्याविदो जनाः नतु मनुष्यदिनरात्रिकालविद इत्यर्थः। यतएवं यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसंख्यायुरवच्छिन्नः प्रजापतिस्तदन्तर्वर्तिलोका अपि यथायोग्यकालपरिच्छिन्ना अतो ब्रह्मलोकसहिताः सर्वे लोकाः पुनरावर्तिन इत्याशयः।