Sbg 8.14 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।8.14।।सङ्गत्यर्थमनुवदति -- एवमिति। अध्यायारम्भगतप्रश्नोत्तरयोस्तत्प्रसञ्जके पूर्वाध्यायान्ते चायं क्रमो न विवक्षितः अधियज्ञान्तिमप्रत्यययोः साधारण्येन प्रतिपादने तात्पर्यात्। इह तु प्रतिनियतार्थोपदेशरूपत्वादुत्तरोत्तरं उत्कृष्टताप्रदर्शनायैश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिनः क्रमेणोक्तमिति भावः। अत्र चएवम् इति निर्देशात्स्वप्राष्यानुगुणं इति निर्देशाच्च प्रकरणस्याधिकारित्रयविषयत्वव्यवस्थापकहेतवः प्रदर्शिताः। तथाहि -- एवमत्र कश्चिच्छङ्क्येत -- ननुते ब्रह्म तद्विदुः [7।29]किं तद्ब्रह्म [8।1]अक्षरं ब्रह्म परमम् [8।3] इति ब्रह्मशब्दस्य साक्षाद्ब्रह्मविषयत्वे को बाधः तस्यैव च सर्वात्मत्वादध्यात्मशब्देनापि तद्गतं सर्वं ग्रहीतुमुचितम्भूतभावोद्भवकरो विसर्गः [8।3] इत्यपि जगत्सृष्टिग्रहणं युक्तं देवतोद्देशेन द्रव्यत्यागो वा स चात्र निवृत्तिलक्षणो यज्ञःअधिभूतं क्षरो भावः [8।4] इति च अधिभवतीति व्युत्पत्तेः प्राणिजातम्। पुरुषश्च अधिदैवतमिति परब्रह्मावस्थाविशेषः समष्टिपुरुषादिर्वा अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवतायज्ञो वै विष्णुः [श.ब्रा.1।3।1] इति श्रुतेःअन्तकाले च [8।5] इत्यादि श्लोकत्रयमपि मुमुक्षोरेवान्तिमप्रत्ययमधिकृत्योक्तम् प्रश्नप्रतिवचनश्लोकानां पूर्वाध्याये प्रस्तुताधिकारित्रयज्ञातव्योपादेयपरत्वेऽप्युपरितनाःश्लोकाः प्रधानतया सुदुर्लभत्वेन निर्दिष्टज्ञानिपरा युक्ताः अन्यथामामेव स्मरन् [8।5]मामेवैष्यसि [8।7] इत्यादेर्बाधात् अत एवप्रयाणकाले च कथम् [8।2]अन्तकाले च माम् [8।5] इति श्लोकयोरधिकारित्रयपरत्वेऽपि तद्विवरणेऽत्र तदैकार्थ्यं ग्राह्यमित्यपि निरस्तम्। तत्रापि चाधिकारित्रयपरत्वं न प्रतीयते नचैश्वर्यार्थिनः परमपुरुषविषयान्तिमप्रत्ययसापेक्षतायां प्रमाणं पश्यामः एवमुत्तरेष्वपि श्लोकेष्वेक एवाधिकारी तद्वेद्यं चैकमेव पुनः पुनरनूद्य विशेषतो विशदीक्रियते नच पुनरुक्तिदोषः अभ्यासस्य ज्ञानिप्राधान्यलिङ्गत्वात्संसिद्धिं परमां गताः [8।15]स याति परमां गतिं [8।13]तमाहुः परमां गतिम् [8।21] इत्यमीषामैकार्थ्यं च प्रतीतं त्वपरित्याज्यम् न च परमगन्तव्यातिरिक्ता परमसंसिद्धिः।तमाहुः परमां गतिम् [8।21] इति परोक्षनिर्देशश्चपुरुषः स परः पार्थ [8।22] इतिवत्स्यात्परमं पुरुषं दिव्यं [8।8]स तं परं पुरुषमुपैति दिव्यं [8।10]पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया [8।22] इत्यमीषां भिन्नार्थत्वकल्पनं चायुक्तम् परैरपि च सर्वैः प्रायश एवमैककण्ठ्येन व्याख्यातम् -- इति। अत्रैवं परिहारक्रमः -- अधियज्ञोऽहमेव इतिवत्अहमेव ब्रह्म इत्यनुक्तेरध्यात्मादिवदत्र ब्रह्मशब्दार्थस्याप्यर्थान्तरत्वं तावत्प्रतीतम् नच ब्रह्मशब्दादक्षरशब्दस्य परमात्मनि रूढ्यतिशयः येन ततस्तद्व्याख्यानं स्यात्।एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तम् [12।1] इत्यादिषु च परमात्मनोऽन्यदेवोपास्यत्वमक्षरशब्देन प्रतीयतेद्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च। क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते।।अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् [वि.पु.1।22।5556] इत्यादिषु चाक्षरपरब्रह्मशब्दौ परिशुद्धात्मविषयौ शारीरकभाष्ये समर्थितौ अतोऽत्रकिं तद्ब्रह्म [8।1] इत्युक्तेऽहमेव ब्रह्मेत्यव्याख्यानात्स्वेतरविषयब्रह्मशब्दः परमशब्दविशेषिताक्षरशब्दानुगुण्याच्च प्रकृतेरीश्वराच्चान्यस्मिन्परिशुद्धात्मन्युपचाराद्वर्तते पश्चाच्चायमेवअव्यक्तोऽक्षर इत्युक्तः [8।21] इति वक्ष्यते न चासौ श्लोकः परमात्मपर इति शङ्कनीयम्ये चाप्यक्षरमव्यक्तं [12।1]ये त्वक्षरमनिर्देश्यं [12।3]क्षरश्चाक्षर एव च [15।16] इत्यादिष्विवात्रापि अक्षरशब्दस्य भगवद्व्यतिरिक्तविषयत्वप्रतीतेः संसिद्धिशब्दश्च परमगतिशब्दनिर्दिष्टप्राप्यविलक्षणां समीचीनां सिद्धिं स्वरसत उपसर्गशक्त्या व्यनक्ति अतएव स्वभावादिशब्दा अधिकारित्रयज्ञातव्योपादेयवस्तुविशेषपरा उक्ताः। एवं स्ववाक्य पर्यालोचनया पूर्वाध्यायप्रकृतपरामर्शेन च प्रश्नप्रतिवचनवाक्यानामधिकारित्रयविषयत्वे सिद्धे तदनन्तराणामपि ग्रन्थानां यथासम्भवं सर्वविषयत्वं युक्तम्। प्रक्रान्ते चाधिकारित्रये यद्वृत्तत्रयेणानूद्यमाने कैवल्यभगवत्प्राप्तिकामयोरनन्तरं स्पष्टमभिधानात्अभ्यास[8।8] इत्यादिकं परिशेषादैश्वर्यार्थिविषयम् यच्चैश्वर्यार्थिनां परमपुरुषविषयान्तिमप्रत्ययसापेक्षतायां प्रमाणं नास्तीति तदपि न श्रीमद्भागवते पुराणे ध्रुवचरिते तद्दृष्टेः -- भक्तिं हरौ भगवति प्रवहन् इत्यादिना। अतो यथोक्त एवार्थः। यद्यपि ब्रह्मपुरुषपरगत्यादिशब्दैरिह सर्वत्र परमात्मभजनतत्प्राप्त्यादिरेव प्रतीयते तथापि तावतैवाधिकारिविषयत्वं वक्तुं न युज्यते पूर्वत्र प्रयाणकाले भ्रूमध्ये प्राणावेशस्य तत्रैव परमात्मध्यानस्य च विहितत्वात् अनन्तरं च हृदि ध्यानस्य मूर्ध्नि प्राणावेशस्य च तत्काल एव विधानात् तदिदं द्वयं परस्परविरुद्धं किं कालभेदाद्व्यवस्थाप्येताधिकारिभेदाद्वा तत्र न तावत्कालभेदः श्रुतः प्रत्युत कालैक्यमेव श्रूयते अतः परिशेषात्सिद्धोऽधिकारिभेदः। किञ्च शतं चैका च [छां.उ.8।6।6] इत्यादिभिर्मूर्धन्यनाड्या निष्क्रमणं मोक्षहेतुः अन्याभिर्निष्क्रमणं फलान्तरहेतुरित्यवगते प्रयाणकाले भ्रूमध्ये मूर्ध्नि च प्राणावेशस्योत्क्रमणशेषतया तत्तद्देशगतनाड्योत्क्रमणे प्रतीते सिद्धस्तदधिकारिभेदः। पूर्वत्र चाध्यायेचतुर्विधा भजन्ते माम् [7।16] इत्यादावयमधिकारिभेदः प्रस्तुतः तदन्ते चजरामरणमोक्षाय [7।29]साधिभूताधिदैवं माम् [7।30] इति श्लोकयोर्यच्छब्दावृत्त्याधिकारिभेदप्रतीतिर्भाष्ये प्रतिपादिता सा चात्रापि स्फुटाअणोरणीयांसमनुस्मरेद्यः [8।9]यः प्रयाति त्यजन् देहं [8।13]यो मां स्मरति नित्यशः इति। एतदखिलमभिप्रेत्योक्तंएवमैश्वर्यार्थिन इत्यादि।
उक्तश्चास्याधिकारीअनन्यचेताः इत्युच्यत इति परोक्तं निराकुर्वन्अनन्यचेताः इति श्लोकस्यार्थमाह -- अथेति।नित्यशः इत्यनेनात्मानुभवादिफलान्तरव्यवधाननैरपेक्ष्यं विवक्षितमित्याह -- उद्योगप्रभृतीति। अन्यथासततम् इत्यनेन पुनरुक्तिः सङ्कोचक्लेशो वा स्यादित्यभिप्रायेणाह -- सततं सर्वकालमिति। अनन्यचेतश्शब्देनाभिप्रेतं स्मृतेर्भक्तिरूपापन्नत्वं दर्शयति -- अत्यर्थेति। अनन्यचेतस्त्वादेव च स्मरणस्याच्छिद्रत्वम्। उत्कण्ठनेऽपि च स्मरतिः प्रयुज्यते -- भ्रातरौ स्मरतां वीरौ [वा.रा.2।13] इत्यादिषु।नित्ययुक्तस्य योगिनः इत्युक्तानुवादः फलस्याव्यवहितत्वद्योतनाय। अत्र अहंशब्देनेश्वरस्य प्रत्यगर्थोऽभिप्रेतः। तेन तद्विशेषणभूताक्षरादिफलप्राप्तिव्यवच्छेदो विवक्षित इत्यभिप्रायेणाह -- अहमेवेति। तदेव विवृणोति -- न मद्भाव इति। भगवत्प्राप्तेः फलान्तरेभ्योऽतिशयितफलत्वात्तत्प्राप्तौ प्रयासातिरेकसम्भावनाव्यवच्छेदाय सुलभपदमित्यभिप्रायेणाह -- सुप्रापश्चेति। अकृच्छ्रेण प्राप्य इत्यर्थः।ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् [अष्टा.3।3।126] इत्यनुशिष्यते। आश्रितवत्सलस्येश्वरस्य सौलभ्यं रागप्राप्तमित्याह -- तद्वियोगमिति। उक्तस्यातिवादमात्रत्वशङ्काव्युदासाय श्रुतिमूलतामाह -- यमेवेति। अत्र वरणशब्देन किमुच्यते न तावच्छेषत्वशरीरत्वाद्याकारेण स्वीकारः तस्य नित्यसिद्धत्वात् न च तद्विपरीतः विरुद्धत्वादेव नच प्राप्तिप्रदानंतेन लभ्यः इत्यनेन पौनरुक्त्यप्रसङ्गात् नचान्योऽत्र प्रकारः असम्भवादित्यत्राह -- मत्प्राप्त्यनुगुणेति। विपाकोऽत्र ध्रुवानुस्मृतिरूपत्वदर्शनसमानाधिकारत्वादिरूपः। तद्विरोधिनो दुष्कृतरजस्तमोरागद्वेषमोहादयः।अत्यर्थमत्प्रियत्वं निरतिशयभक्तित्वम्। आदिशब्देन परमपदपर्यन्तासत्तिपर्यन्तं यन्मध्येऽपेक्षितं तत्सर्वं विवक्षितम्।अहमेवेति परमकारुणिकस्य ममैवायं भर इत्यभिप्रायः।तस्याहं सुलभः इत्यादेरुक्तार्थपरत्वस्थिरीकरणायास्यैवार्थस्य वक्ष्यमाणं विस्तरगुदाहृतश्रुत्युपबृंहणरूपं दर्शयति -- वक्ष्यते चेति।,