Sbg 8.14 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।8.14।।एवं परमात्मचिन्तकानां त्रिधा प्राप्तिमुक्त्वा स्वचिन्तकस्य भक्तस्य स्वप्राप्तिमाह -- अनन्येति। नान्यस्मिन्पुत्रदारादिके (किन्तु अक्षरादिके स्वरूपे) चेतो यस्य तथा मां भगवन्तं लीलापुरुषोत्तमं नित्यशः स्मरति सततं तस्य नित्ययुक्तस्य मदनुरक्तस्य योगिनो मत्सम्बन्धतो वाऽहं निरुपममहिमा वासुदेवः पुरुषोत्तमो भगवान्सुलभो़ऽस्मि।