Sbg 8.14 scram
Sanskrit Commentary By Sri Ramanuja ।।8.14।। नित्यशो माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थं मत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः न मद्भाव ऐश्वर्यादिकः।
सुप्रापश्च तद्वियोगम् असहमानः अहम् एव तं वृणे मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थं मत्प्रियत्वादिकं च अहम् एव ददामि इत्यर्थः।यमेवैष वृणुते तेन लभ्यः (मु0 3।2।3) इति हि श्रूयते वक्ष्यते च।तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।। (गीता 10।1011) इति।अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्च अपुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं च आह --