Sbg 8.12 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।8.12।।भ्रुवोर्मध्ये कथं प्राणमावेशयेदित्यत आह -- सर्वेति। सर्वाणि शब्दादिविषयग्रहणद्वाराणीन्द्रियाणि संयम्य निगृह्य तथा हृदि मनोऽपि निरुध्य तेषां कञ्चुकभूतं प्राणं मूर्धन्यनाड्या सुषुम्नाख्यया मूर्ध्नि भ्रुवोर्मध्ये आधाय कथं योगधारणां योगशास्त्रोक्तां धारणां मनसो देशविशेषनिबन्धिनीं आस्थितः अनुतिष्ठन्सन्।