Sbg 7.3 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।7.3।।मनुष्याः शास्त्राधिकारयोग्याः तेषां सहस्रेषु कश्चिद् एव सिद्धिपर्यन्तं यतते। सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिद् एव मां विदित्वा मत्तः सिद्धये यतते। मद्विदां सहस्रेषु तत्त्वतो यथावत्स्थितं मां वेत्ति न कश्चिद् इति अभिप्रायः।स महात्मा सुदुर्लभः (गीता 7।19)मां तु वेद न कश्चन (गीता 7।26) इति हि वक्ष्यते।