Sbg 7.2 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।7.2।।ननु ज्ञानं वक्ष्यते न तूक्तं तत्कथमिदं इति परामर्श इत्यत आह इदमि ति। मामिति स्वस्य प्रकृतत्वात् तत्सम्बन्धित्वेन ज्ञानमपि प्रकृतमिति भावः। सविज्ञानं स्वानुभवसंयुक्तं (शां.भा.) इत्येतदपाकर्तुं विज्ञानपदार्थमाह विज्ञानमि ति। अस्यैव वक्ष्यमाणत्वादपरस्य तदभावादिति भावः।