Sbg 7.22 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।7.22।। ततश्च स तयेति। स भक्तस्तया दृढया श्रद्धया तस्यास्तनोराराधनमीहते करोति। ततश्च ये संकल्पिताः कामास्तान्कामान् ततो देवताविशेषाल्लभते किंतु मयैव तत्तद्देवतान्तर्यामिणा विहितान्निर्मितान् हि स्फुटमेव तत्तद्देवतानामपि मदधीनत्वान्मममूर्तित्वाच्चेत्यर्थः।