Sbg 7.22 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।7.22।। स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् हियस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः। हितान् इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् न हि कामा हिताः कस्यचित्।।यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते अतः