Sbg 7.22 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।7.22।। स तया निर्विघ्नया श्रद्धया युक्तः तस्य इन्द्रादेः आराधनं प्रति ईहते चेष्टते ततः मत्तनुभूतेन्द्रादिदेवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मया एव विहितान् लभते।यद्यपि आराधनकाले इन्द्रादयो मदीयाः तनवः तत एव तदर्चनं च मदाराधनम् इति न जानाति तथापि तस्य वस्तुतो मदाराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि।