Sbg 7.22 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।7.22।।ततश्च स तया श्रद्धया युक्तः सन् तस्या मूर्तेराराधनं ससाधनं वशीकरणमीहते इच्छति। ततश्च कामान्विषयांल्लभते। मयैव विहितानाज्ञापितान्। हितानीप्सितान्। एतेन सर्वासां देवतानां स्वाज्ञावशवर्तित्वं दर्शितम्।