Sbg 7.21 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।7.21।।ता अपि देवता मदीयाः शरीरभूताः य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं बृ.उ.3।7।9 इत्यादिश्रुतिभिस्तथाप्रतिपादनात्। तदजानन्नेव यो यो यां यां इति तस्याजानतोऽपि मच्छरीरभूतविषयकैषा श्रद्धेत्यहमोकोऽनुसन्धाय तां श्रद्धामेवाचलां विदधामि।