Sbg 7.1 scjaya
Sanskrit Commentary By Sri Jayatritha ।।7.1।।ज्ञानसाधनादन्यदुत्तराध्यायप्रतिपाद्यं वक्तुंयोगे त्विमां शृणु 2।39 इति प्रतिज्ञातमसमाप्य कथमर्थान्तरमुच्यते। इत्याशङ्कां तावत्परिहरति साधनमि ति। ज्ञानस्येति शेषः। तत्र तत्र भगवन्महिम्नोऽपि वर्णितत्वेन प्राधान्येनेत्युक्तम्। प्राचुर्येणेत्यर्थः।उक्तं इत्यनेन प्रतिज्ञातसमाप्तिं सूचयति। तच्च प्रतिज्ञान्तरकरणादवगम्यते। इदानीमुत्तरग्रन्थप्रतिपाद्यमाह उत्तरै स्त्विति। अध्यायैरिति वर्तते। अनेन ज्ञानविज्ञानशब्दौ ज्ञेयभगवन्माहात्म्यपराविति सूचितम्। अत्रापि क्वचित्साधनस्योक्तत्वात्प्राधान्येन इत्युक्तम्। सङ्गतिस्तु प्रथमश्लोक एवोक्ता अनेन द्विविधेन योगेन यज्ज्ञातव्यं तच्छृण्वित्युक्तत्वात्।आसक्तमनाः सम्बद्धमनाः इति प्रतीतिनिरासायाह आसक्ते ति।अतीव इत्याङोऽर्थः सम्बन्धमात्रस्य योगानङ्गत्वादिति भावः। भगवदाश्रयत्वं सर्वसाधारणं कथं योगिनो विशेषणम्। इत्यत आह मदाश्रय इति। शरणं रक्षकः। इति स्थित इति जानन्निति यावत्।असंशयं समग्रं इत्युभयं भगवद्विशेषणत्वेन भास्करो व्याख्यातवान् संशयरहितं समग्रं कृत्स्नं मां इति। अपरस्तु (शां.) समग्रमित्येवसमग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां ৷৷. संशयमन्तरेण इति तन्निरासार्थमाह असंशयमि ति तच्च समग्रं यथा भवति तथेत्यर्थः। न हि भगवतः संशयराहित्यमिदानीं वक्तव्यम्। न च भगवान्समग्रोऽन्येन केनचिच्छक्यो ज्ञातुम्स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं 10।15 इति वक्ष्यमाणत्वादिति भावः।