Sbg 7.19 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।7.19।।पुनरप्युक्तज्ञानवत्त्वस्यानेकजन्मसाध्यपुण्यफलत्वेन दुर्लभतरतया ज्ञानिनः श्रैष्ठ्यं दर्शयति बहूनाम् इति श्लोकेन।ये जन्मकोटिभिः सिद्धास्तेषामन्तेऽत्र संस्थितिः इति भगवच्छास्त्रंजन्मान्तरसहस्रेषु पां.गी.4 इत्यादिकां स्मृतिं चानुसन्दधान आह नाल्पेति।बहूनां जन्मनाम् इत्यत्र न तावद्बहुजन्मसद्भावमात्रं विवक्षितम् तस्यात्रानुपयुक्तत्वात्। न च बहुजन्ममात्रस्य ज्ञानहेतुत्वमुच्यते सर्वेषामयत्नतो ज्ञानित्वप्रसङ्गात् अतःपुण्यजन्मनां इति विशेषितम्। ईदृशज्ञानवत्त्वमेवम्भूतविशिष्टप्रपत्तौ हेतुरिति दर्शयितुं ज्ञानवतोऽनेकजन्मभ्रमव्युदासाय चज्ञानवान् भूत्वेत्युक्तम्।वासुदेवः सर्वम् ति सामानाधिकरण्यस्य बाधाध्यासतादात्म्यादिविषयत्वायोगाच्छरीरशरीरिभावादिनिर्वाहादपि प्रकरणविशेषसिद्धस्यार्थस्य ग्राह्यतरत्वात्परमप्राप्यमित्यादिकमुक्तम्। लौकिकं धारकादिकमभिप्रेत्याहअन्यदपीत्यादि।त्वमेव माता च पिता त्वमेव ना.हृ.10माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः इत्यादिकमपीहाभिप्रेतम्। प्रपत्तेरत्रोपासनाङ्गत्वादाहमामुपास्त इति। ज्ञानिनोऽपि स्वरूपमहत्त्वं प्रमाणविरुद्धम् पङ्क्तिपावनत्वादिमाहात्म्यं सदपि प्रकृतेऽनपेक्षितम् तस्माज्ज्ञानविशेषाधीनमाहात्म्यमिह विवक्षितमित्याहमहामना इति। फलान्तरपरस्यापि भगवदुपासकस्य दुर्लभत्वात्तद्व्यवच्छेदाय सुशब्द इति दर्शयितुंदुर्लभतर इत्युक्तम्।


वासुदेवः सर्वम् इति सामानाधिकरण्यस्य पराभिमतमर्थं प्रतिक्षिपन् स्वोक्तं द्रढयतिवासुदेव इति। अत्र ह्युपक्रमः प्राप्यभेदनिबन्धनाधिकारिभेदपरः। प्रकरणविरुद्धप्रकरणानुपयुक्तो वाऽर्थः प्रकरणविशेषसिद्धोपयुक्ततमार्थे जागरूकेऽनादरणीय इति भावः।ज्ञानवान् इत्यत्रापि निर्विशेषादिज्ञानजीवमात्रज्ञानादिव्युदासायाहनिवांश्चायमिति। उक्तलक्षणः वासुदेवशेषतैकरसस्वात्मवेदीत्यर्थः। उक्तलक्षणत्वे हेतुमाह अस्यैव पूर्वोक्तज्ञानित्वादितिज्ञानी च भरतर्षभ 7।16 इति पूर्वोक्ते ज्ञानिनि कथमुक्तलक्षणत्वं इत्यत्राहभूमिराप इत्यारभ्येति। यद्वा पूर्वोक्तज्ञानित्वादित्येकभक्तित्वादिकं विवक्षितम्भूमिरापः इत्यादिना हेत्वन्तरोक्तिः।कार्यकारणोभयावस्थस्येति कार्यत्वकारणत्वरूपोभयावस्थाविशिष्टस्येत्यर्थः। स्वरूपस्थित्यादितादधीन्यंमयि सर्वं 7।7रसोऽहम् 7।8 इत्यादिषु व्यक्तम्। उक्तलक्षणत्वं निगमयति अत इति।स एवेति वासुदेवशेषतैकरसोऽहम् इत्यादिनोक्तलक्षण एवेत्यर्थः।