Sbg 7.19 scval
Sanskrit Commentary By Sri Vallabhacharya ।।7.19।।एवम्भूतोऽतिदुर्लभ इत्याह बहूनामिति। आत्मज्ञानं तु कदाचिदेकजन्मन्यपि सिद्धं भवति भगवज्ज्ञानं तु न तथेति ततोऽपि प्रपत्तिभक्तिरतिदुर्लभा सा चेद्भवति स महादुर्लभः। यो बहूनां जन्मनामन्ते चरमजन्मनि पूर्वसुकतसञ्चयेन यत्सन्तुष्टभगवता दत्तं स्वज्ञानं तद्वान् भवति स दुर्लभः। तादृशोऽपि मां पुरुषोत्तमं परमात्मानं प्रपन्नो विज्ञानवानतिदुर्लभः यतो ज्ञानमपि तस्य नात्मैकविषयकं किन्तु भगवत्सर्वविषयकं तदाह वासुदेवः सर्वमिति।कृष्ण एवाखण्डं(ण्डः)सर्वं इत्यभेदज्ञानवान्। तथैतदुक्तं निबन्धे अखण्डाद्वैतभाने तु सर्वं ब्रह्मैव नान्यथा। ज्ञानाद्विकल्पबुद्धिस्तु बाध्यते न स्वरूपतः। भिन्नत्वं नैव युज्येत ब्रह्मोपादानतः क्वचित्। वाचारम्भणमात्रत्वाद्भेदः केनोपजायते इति। अतएव महात्माऽपरिच्छिन्नात्मा एकविज्ञानेन सर्वविज्ञानवान् स सुदुर्लभःसुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने इति श्रीभागवते षष्ठस्कन्धे () रुद्रोक्तेः।