Sbg 7.14 scram
Sanskrit Commentary By Sri Ramanuja ।।7.14।। मम एषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद् दैवी देवेन क्रीडाप्रवृत्तेन मया एव निर्मिता तस्मात्सर्वैः दुरत्यया दुरतिक्रमा।
अस्याः मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनाम् इव विचित्रकार्यकरत्वेन यथा चततो भगवता तस्य रक्षार्थं चक्रमुत्तमम्। आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्।।तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकैकांशेन सूदितम्।। (वि0 पु0 1।19।1920) इत्यादौ।अतो मायाशब्दो न मिथ्यार्थवाची। ऐन्द्रजालिकादिषु अपि केनचिद् मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेः उत्पादकत्वेन मायावी इति प्रयोगः। तथा मन्त्रौषधादिः एव च तत्र माया सर्वप्रयोगेषु अनुगतस्य एकस्य एव शब्दार्थत्वात्। तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेन औपचारिकःमञ्चाः क्रोशन्ति इतिवत्।
एषा गुणमयी पारमार्थिकी भगवन्माया एवमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वेता0 4।10) इत्यादिषु अभिधीयते।अस्याः कार्यं भगवत्स्वरूपतिरोधानं स्वस्वरूपभोग्यत्वबुद्धिः च अतो भगवन्मायया मोहितं सर्वं जगद् भगवन्तम् अनवधिकातिशयानन्दस्वरूपं न अभिजानाति।मायाविमोचनोपायाम् आह माम्
एव
सत्यसंकल्पं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यं
ये
शरणं
प्रपद्यन्ते ते एतां
मदीयां गुणमयीं
मायां तरन्ति।
मायाम् उत्सृज्य माम् एव उपासत इत्यर्थः।किमिति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वन्ति इत्यत्र आह