Sbg 7.14 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।7.14।।तर्ह्यनादिसिद्धां त्रिगुणात्मिका दैवीं मायां जीवमोहिनीं केनोपायेनातिक्रामन्तीत्यपैक्षायामाह दैवी हीति। देवस्य ममेश्वरस्य स्वभूता त्रिगुणमयी त्रिगुणात्मिका माया प्रकृतिःमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। सा प्रकृतिर्मायाविद्यारुपेण द्विधामाया चाविद्या च स्वयमेव भवति इति श्रुतेः। तदुक्तंतमोरजःसत्त्वगुणा प्रकृतिर्दिविधा मता। सत्त्वशुद्य्धविशुद्धिभ्यां मायाविद्ये च ते मते।।मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः। अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा।। इति। तथाच माया प्रकृतिरविद्या मायामयी ईश्वरमधिष्ठानत्वेनाश्रित्य जीवान्मोहयति। तथाच शारीरकं भाष्यंअविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिर्यस्यां स्वरुपबोधरहिताः वस्तु न जानामीत्यत्र तथैवानुभवात्। नचाविद्यायां सत्यां जीवपरमात्मविभागः। सति चैतस्मिन्जीवाश्रया परमात्मविषया विद्येतीतरेताश्रय इति वाच्यम्। जीवाविद्ययोर्बीजाङ्कुरवदनादित्वात्। नन्वेतद्दृष्टान्तेन जीवानित्यत्वमिति चेन्न। उत्तरोत्तरजीवाभिव्यक्तीनां पूर्वपूर्वभ्रमनिमित्तत्वाश्रयणात्। नन्वविद्याया जीवाश्रितत्वे स्वस्य च तदाश्रितत्वे आत्माश्रय इति चेन्न। अनादित्वेनोत्पत्त्यभावात्। जीवस्य स्तवःप्रतीत्य तद्दलादविद्याया अपि प्रतीतिसंभवात्। नन्वेवमपि स्वस्कन्धारुढारोहणवत्स्वाश्रिताश्रितत्वं विरुद्धमितिचेन्न। जीवाविद्ययोरमूर्तत्वेन कुण्डबदरवदधरोत्तरीभावायोग्यत्वेनावच्छेद्यावच्छेदकत्वाश्रयणात्। अविद्यावच्छेदकोपाधिकं जीवत्वमिति जीवोविद्ययावच्छिद्यते। नन्विदमपीतरेतराश्रयग्रस्तमिति चेन्न। एवंविधस्थरेऽयोन्याश्रयस्यादोषात्। प्रमेयत्वावगाहि प्रमाणं निरुपकप्रमेयावच्छेद्यं प्रमेयं च स्वविशेषणीभूतप्रमाणावच्छेद्यमित्येवमादिप्ववच्छेद्यावच्छेदकत्वस्यान्योन्याश्रयतन्त्रस्य दृष्ट्वात्। जीवाविद्ययोरधिष्टानं तु ब्रह्म तस्यैव सर्वप्रपञ्चविवर्ताधिष्टनत्वात्। तदुक्तम् अधिष्ठानं विवर्तानामाश्रयो ब्रह्मशुक्तिवत्। जीवाविद्यादिकानां स्यादिति सर्वमनाकुलम्।। इति। अतएव भगवताप्युक्तंदैवी ह्येषा गुणमयी मम मायेति। शुक्तिरेव यथा रजतरुपेणावभासते तथा पर एवात्मा अनाद्यविद्यावच्चेदलब्धजीवभावभेदेनावभासते। सएव च देहेन्द्रियादिभिरवच्छिद्यमानो बालैः शारीर इत्युपचर्यते। तादृशां च जीवानामविद्या नतु सर्वोपाधिविहीनस्य परमात्मनः। नन्वस्वतन्त्रोऽन्येन कारग्रहे प्रवेश्यते। परमात्मा तु सर्वज्ञः सर्वशक्तिश्च कस्मादकस्मात्संसारी संपद्यत इतिचेन्न। शुद्धबुद्धमुक्तस्वभावस्य निर्मृष्टनिखिलाविद्यातद्वासनस्येति हि यस्मादेषानुभवसिद्धा अकस्मादपलापानर्हा गुणमयी सत्त्वरजस्तमोमयी। प्रधानस्येव मायायाः स्वातन्त्रयनिरासार्थं दैवीत्युक्तम्। देवस्येयं स्वभूता दैवी। कल्य देवस्येयं च केत्यपेक्षायां मम माया इत्युक्तम्। दुरत्ययां दुःखेनात्ययोऽतिक्रमणं यस्याः सा। अतिक्रमणे तर्हि क उपाय इत्यपेक्षायामाह मामिति। मामेव स्वात्मभूतम्। एवकारेण मायाया व्यावृत्तिविंवक्ष्यते। ये प्रपद्यन्ते सर्वात्मना प्रपन्ना भवन्ति ते मत्प्रसादाल्लब्धबुद्धियोगा मायामेतां दुरत्ययां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति। संसारबन्धनान्मुच्यन्त इत्यर्थः। ते मत्प्रसादाल्लब्धबुद्धियोगा मायामेतां दुरत्ययां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति। संसारबन्धनान्मुच्यन्त इत्यर्थः। अत्रेदमवधेयम् अनादिरनिर्वाच्या भूतप्रकृतिश्चिन्मात्रसंबन्धिनी माया। तस्यां चित्प्रतिबिम्ब ईश्वरः। तस्या एवावरणविक्षेपशक्तिमदविद्याभिधानेषु परिच्छिन्नानन्तप्रदेशेषु चित्प्रतिबिम्बो जीव इति केचित्।जीवेशावाभासेन करोतिमायाय चाविद्या च स्वयमेव भवति इति श्रुतिसिद्धौ मूलप्रकृतेस्त्रिगुणात्मिकाया द्वौ रुपभेदौ रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना माया तदभिभूतमलिनसत्त्वप्रधानाऽविद्येति मायाविद्याभेदं परिकल्पयित्वा मायाप्रतिबिम्ब ईश्वरोऽविद्याप्रतिबिम्बो जीव इति केचिद्वर्णयन्ति। एकैव मूलप्रकृतिर्विक्षेपप्रधानान्येन मायाशब्दितेश्वरोपाधिः। आवरणप्रधान्येनाविद्याऽज्ञानशब्दिता जीवोपाधिरिति केचित्।कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति श्रुतिमनुसृत्यविद्यायां चित्प्रतिबिम्ब ईश्वरः अन्तःकरणे चित्प्रतिबिम्बो जीव इति केचित्। एवमुक्तेष्वेतेष जीवेश्वरयोः प्रतिबिम्बविशेषत्वपक्षेषु यद्विम्बस्थानीयं ब्रह्म तन्मुक्तप्राप्यम्। अन्येतु जीव ईश्वरः शुद्धा चिदिति त्रैविध्यप्रक्रियां विहाय वस्तुत एकस्यैवाकाशस्य घटाकाशजलाशमहाकाशमेघाकशभेदाच्चातुर्विध्यमिवैकस्यैव चैतन्यस्य कूटस्थजीवब्रह्मेश्वरभेदेन चातुर्विध्यं परिकल्प्य धीवासनोपरक्ताज्ञानोपाधिरीश्वरः अन्तःकरणोपाधिर्जीव इति दर्शयन्ति। अन्येतुविभेदजनकेऽज्ञाने नाशमान्त्यतिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति।। इति समृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधिध्वप्रतिपादनाद्विम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागो नोभयोरपि प्रतिबिम्बभावेनोपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात्। तत्रापि प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर इति। सच प्रतिबिम्बभूतो जीव एवाविद्योपाधिक एकमेव तदज्ञानं तदज्ञानकल्पितं च सर्वं जगत्तस्य स्वप्रदर्शनवद्यावदविद्यं सर्वो व्यवहारः। बुद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात्। शुकमुक्त्यादिकमपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितमिति वर्णयन्ति। परेतु रुपानुपहितप्रतिबिम्बो न युक्तः। सुतरां नीरुपे। ननु नीरुपस्य गगनस्य जलादौ प्रतिबिम्बानुभवान्नीरुपस्य न प्रतिबिम्ब इति नास्ति नियम इति चेन्न। आलोकप्रतिबिम्बे गगनप्रतिबिम्बत्वव्यवहारस्य भ्रममात्रमूलकत्वात्। ध्वनिधर्माणामुदात्तादिस्वराणां संनिधिमात्रेण व्यञ्जकतया वुर्णेष्वारोपोपपत्त्या वर्णप्रतिबिम्बोपाधिकत्वपल्पनााय निष्प्रमाणकत्वेन ध्ववौ वर्णप्रतिबिम्बत्ववादोऽप्ययुक्तः। तस्माच्चाक्षुषस्यैव चाक्षुष एव प्रतिबिम्बइति नियमस्य न क्वापि भङ्गोऽस्ति। चन्दनखण्डादिप्रतिबिम्बे चाक्षुषगुणानामेवानुभवात्। तदाग्राणेऽपि सौरभाननुभवाच्च। मुखादिप्रतिबिम्बेऽपि चाक्षुषगुणानामेवोपलम्भो नतु मुकोच्चारितशब्दस्य। ननु गुहादिषु प्रतिध्वनिरुपस्य ध्वनिप्रतिबिम्बस्योपलम्भ इति चेन्न। पञ्चीकरणप्रक्रियायां दुन्दुभिसमुद्रतवावानलझंझामारुदादिध्वनीनां पृथिव्यादिशब्दत्वेन प्रतिध्वनेरेवाकाशगुणत्वात्तस्यान्यशब्दप्रतिबिम्त्वानुपपत्तेः। नच वर्णात्मकप्रतिशब्दस्य पूर्ववर्णप्रतिबिम्बत्वमिति वाच्यम्। मूलध्वनिवदेव प्रतिध्वनेरपि वर्णाभिव्यञ्चकत्वोपपत्तेः। तस्मात् घटाकाशवदन्तःकरणाद्यवच्छिन्नं चैतन्यं जीवः। तदनवच्छिन्न ईश्वर इति। नचैवंयो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयति इत्यादिश्रुत्या ईश्वरस्यान्तर्यामिभावेन विकारान्तरावस्थानबोधकया विरोधः। ब्रह्माण्डान्तर्वर्तितत्तदन्तःकरणोपाधिभिस्तदन्तर्वर्तिचैतन्यस्य सर्वात्मना जीवभावेनावच्छेदात् तदवच्छेदरहितचैतन्यात्मकस्येश्वरस्य ब्रह्माण्डान्तः सत्त्वानापत्तेः। प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनादेकत्र द्विगुणीकृत्य वृत्तिरुपपद्यत इति वाच्यम्। अविद्याश्रयत्वान्तःकरणसंवलितत्वाद्युपाधिकाज्जीवादविद्याविषयत्वान्तःकरणासंवलितत्वाद्युपाधिकस्यान्तर्यामिणो भेदेनावस्थानस्योपपत्त्या श्रुतिविरोधाभावात्। प्रतिबिम्बपक्षे तु अन्तर्यामिब्राह्मणस्यासामञ्जस्यं बहिस्थपाषाणादिवत् जलान्तर्वर्तिपाषाणादेः जले प्रतिबिम्बादर्शनादुपाध्यनन्तर्गतस्यैव चैतन्यस्य प्रतिबिम्ब इत्यवश्याङ्गीकर्तव्यत्वेन बिम्बभूतस्य विकारान्तरावस्थानायोगात्। एकत्र द्विगुणीकृत्यवृत्तिरित्यपि न।षडस्माकमनादयः इति सिद्धान्ते जीवेश्वरभिन्नत्वेनाभ्युपगतस्य जीवादिसर्वप्रपञ्चविवर्ताधिष्ठात्वेन सर्वगतस्य शुद्धचैतन्यस्याप्यन्तःकरणे सत्त्वस्यावर्जनीयत्वेन जीवोऽन्तर्यामी शुद्धतैतन्यं चेति एकत्र त्रिगुणीकृत्य वृत्तेरुपपादनीयत्वापत्तेः। नचावच्छेदपक्षेयथा स्वयंज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरुपो देवः क्षेत्रेष्वेवमजोऽध्यमात्माअतएव चोपमा सूर्यकादिवत् इति श्रुतिसूत्रविरोध इति वाच्यम्। भाष्यकारैरेवअतएवेति सूत्रं व्याख्याय सूर्यादिवदात्मनः प्रतिबिम्बो न युज्यते इति तदाक्षेपकत्वेनअम्बुवदग्रहणात्तु न तथात्तवम् इति सूत्रं व्याख्यातततो वृद्धिह्नासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् इति सूत्रेणोक्तानुपपत्त्या आत्मनः प्रतिबिम्बनमनुपपन्नमित्यङ्गीकृत्यैव श्रुतिषु सूर्यादि प्रतिबिम्बोपादानस्य तात्पर्यान्तरवर्णनपरताया उक्तत्वात्। तथाच भाष्यंयत एव चायमात्मा चैतन्यस्वरुपो निर्विशेषो वाङ्यनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा दीयते शास्त्रेषुयथा ह्ययं ज्योतिः इत्यादि।एक एव तु भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत्।। इतिचैवमादिषु। अत्र प्रत्यवस्थीयते न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् सूर्यादिभ्यो मूर्तेभ्यः पृथग्भूतं विप्रकृष्ठं देशम्। मूर्तं च जलं गृह्यते। तत्र युक्तः सूर्यादिप्रतिबिम्बोदय न त्वात्मा मूर्तो न चास्मात्पृथग्भूता विप्रकृष्टेशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच्च। तस्मादयुक्त उक्तोऽयं दृष्टान्त इति। अत्र प्रतिविधीयते युक्त एव त्वयं दृष्टान्तो विवक्षितांशसंभवात्। नहि दृष्टान्तदार्ष्टान्तिकयोः किंचित्क्वचिद्विवक्षितमंशं मुक्त्वा सर्वसारुप्यं केनचिद्दर्शयितुं शक्यते सर्वसारुप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात्। नचेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनं शास्त्रप्रणीतस्य त्वस्य प्रयोजकमात्रमुपन्यस्यते किं पुनरत्र विवक्षितं सारुप्यमिति। तदुच्यते वृद्धिह्रासभाक्त्वमिति। जलगतं हि सूर्यप्रतिबिम्ब जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुविधायि भवति नतु परमार्थतः सूर्यस्य तथात्वमस्त्येवं परमार्थतोऽविकृतमेकरुपमपि सद्ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपाधिधर्मान्वृद्धिह्रासादीनेवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोध इति। बृहदारण्यकभाष्येऽपि प्रवेशपदार्थस्यान्यथोपपादनेन प्रतिबिम्बपक्षदूषणं स्थरीकृतम्। तैत्तिरीयकभाष्येऽपितत्सृष्ट्वा तदेवानुप्राविशत् इति वाक्ये प्रवेशविचारावसरे जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादितिचेन्न। अपरिच्छिन्नत्वादमर्तूत्वाच्च परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादास्वाभाविके जलादौ सूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादितिचेन्न। अपरिच्छिन्नत्वादमूर्तत्वातच्च परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वाभाविके जलादौ सूर्यकदिप्रतिबिम्बोदयः स्यात्। नत्वात्मनोऽमूर्त्वादाकाशादिकारणस्यात्मनो व्यापकत्वात्तद्विप्रकृष्टदेशप्रतिबिम्बाधारवक्त्वभावाच्च प्रतिबिम्बवत्प्रेवेशो न युक्त इति प्रतिबिम्बभावेन प्रवेशनिराकरणं भाष्यकृद्भिः कृतम्। एवंच प्रतिबिम्बपक्षे श्रुतिसूत्रभाष्यविरोधोऽवच्चेदपक्षे तु तदभाव इति। अस्मिन्पक्षे श्रुतिसूत्रभाष्यानुग्रहोऽप्यस्ति। तथाहिघटसंवृतमाकाशं नीयमाने यथा घटे। घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः इति जीवस्य नभोपमशब्देन घटसंवृताकाशतुल्यत्वमभिधायिन्या श्रुत्यावच्छिन्नचैतन्यस्यैव जीवरुपत्वमुक्तम्।अंशो नानाव्यपदेशात् इति सूत्रेण जीव ईश्वरस्यांशो भवितुमर्हति। यथाग्नेर्विस्फुलिङ्गोऽश इवांशः। नहि निरवयवस्य मुख्योऽशः संभवति कस्मात्पुनर्निरवयवत्वात्स एव न भवतिनानाव्यपदेशात्।य आत्मनि तिष्टन्नात्मानमन्तरो यमयति इतिचैवमादिको भेदनिर्देशो नासति भेदे संभवतीति भाष्येण च जीवचैतन्यस्य घटाकाशवदन्तःकरणावच्छिन्नत्वरुपमंशत्वं विवक्षितम्। यद्यपिआभास एव च इतिसूत्रेण आभास एवएष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः इति तद्भाष्येण च तन्निराकरणं च न संभवतीति किंचिदनुरोधेन कस्मिंश्चिद्य्धाख्यातव्ये प्रतिबिम्बत्वनिराकरणस्ययुक्तियुक्त्त्वे न आभास इति सूत्रे भाष्यकृद्भिरपि भुत्योपपत्त्या प्रतिबिम्बत्वस्यासमर्थितत्वात्। तदेव सूत्रं तद्भाष्यं च वृद्धिह्रासभाक्त्वमिति सूत्रोक्तन्यायात्।अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध इति तदधिकरणभाष्ये प्रतिबिम्बस्य दृष्टान्तत्वेनोक्तत्वाच्च प्रतिबिम्बसादृश्यप्रतिपादनपरं व्याख्येयम्। तस्मात्प्रतिबिम्बासंभवादिवच्छेदपक्षे विरोधाभावत्साधकस्य सत्त्वाच्च अवच्छेद्यचैतन्यस्य प्रतिबिम्बपक्षेऽपि संमतत्वेनोभयसंप्रतिपन्नत्वेन लाघवात्तस्यैव जीवत्वकल्पनौचित्यात्। सर्वगतस्य चैतन्यस्यान्तःकरणादिनावच्छेदोऽवश्यंभावीत्यावश्यकत्वाद्वच्छेदो जीव इति। स चानेकः अन्तःकरणादीनां नानाभूतानां जीवोपाधित्वाभ्युपगमात्। तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्।यथाग्रेः क्षुद्रा विस्फलिघङ्ग व्युच्चरन्त्येवमेवास्मादात्मनः सर्व एत आत्मानो व्युच्चरन्ति इत्यादिश्रुतेः प्रतिषेधादिति चेन्न। शारीरादित्याधिकरणे बद्धमुक्त्वप्रतिपादकभाष्यस्य नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध इतिआभास इति सूत्रस्थस्य सच स्वात्मभूतानिव घटाकाशस्थानीयानविद्योपस्थापितनामरुपकृकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे इति।तदनन्यत्वं इत्यधिकरणस्थस्य जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखभुक् प्रतिशरीरं प्रविभक्त इति जीवात्मनामुत्पत्तिप्रलयाबुच्येते। इति नात्मेत्यधिकरणस्थस्य च भाष्यस्यमामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते इत्यादिस्मृतेः।एवं जीवाश्चितो भावा भवभावनयोहिताः। ब्रह्मणः कलिताकारल्लक्षशोऽप्यथ कोटिशः।।असंख्याताः पुरा जाता जायन्ते चापि चाद्य भोः। उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात्।।स्ववासनावशावेशादाशाविवशतां गताः। दशास्वतिविचित्रासु स्वयं निगडिताशयाः।।भविष्यञ्जातयः केचित्केचिद्भूतभवोद्भवाः। वर्तमानभवाः केचित्केचित्त्वभवतां गताः।।(अभवतां विदेहमुक्तिमिति टीकाकाराः)। जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः। चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे।।(परेपरमात्मनि परिणतास्तद्भावं प्राप्ता विदेहमुक्ता इति व्याख्यातारः)। केचिच्चिरेण कालेन भविष्यन्मुक्ततः शिवाः। केचिद्विशन्ति चिद्भावाः केवली भावमात्मनः।। केवलीभावं केवल्यमित्यादीतिहासस्य चास्मिन्पक्षे एवाञ्जस्यं नत्वेकजीववादे। नच नानाजीववादेऽपि ब्रह्मैव स्वाविद्यया नानान्तःकरणभावेन परिणतया नानाजीवभावं प्राप्य संसरति स्वविद्यया मुच्यत इत्यभिप्रायकत्वेपपत्तेः। नच जीवत्वोपाधिभूताया अविद्याया एकत्वाज्जीवैक्यसिद्धिरिति वाच्यम्। रूपं रुपं प्रतिरूपो बभूव तदस्य रुपं प्रतिचक्षणाय।इन्द्रो मायाभिः पुरुरुप ईयते ित्यादिश्रुत्या अविद्याया नानात्वाभ्युपगमात्। तदेकत्वश्रुत्यादीनां जात्यभिप्रायकत्वेपपत्तेः। अविद्याया एकत्वेऽपिकार्योपाधिरयं जीवः इतिश्रुत्यनुसारेणान्तःकरणानामेव जीवत्वोपाधित्वोपगमसंभवाच्च। अविद्याया नानात्वपक्षे विनिगमकाभावादनेकतन्त्वारब्धपटतुल्यः सर्वाविद्याकृतः प्रपञ्च इत्येके तत्ततज्ञानकृतप्रातिभासिकरजतवत्तत्तदविद्यकृतो वियदादिप्रपञ्चः प्रतिपुरुषं भिन्नः एक्यप्रत्ययस्तु शुक्तिरुप्यैक्यप्रत्ययवदित्यन्ये जीवाश्रितादविद्यानिचयाद्भिन्नाः परमेस्वराश्रिता मायैव प्रपञ्चकारणं जीवानामविद्यास्तु आवरणमात्रे प्रातिभासिकसृष्टौ चोपयुज्यन्ते।नाहं प्रकाशः सर्वस्य योगमायासमावृतः इत्यादिवचने मायापदं सर्वे वयमतःपरंकामात्मानः स्वर्गपराःभोगैश्वर्यप्रसक्तानांकृपणाः फलहेतवःकर्मजं बुद्धियुक्ता हि या निसा सर्वभातानांज्ञानयोगगेन सांख्यानां कर्मयोगेन योगिनांकर्मणैव हि संसिद्धिमास्थिता जनकादयःये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहंएवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिःयत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यतेज्ञानेन तु तदज्ञानं येषां नाशितमात्मनःतद्धुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुररावृत्तिं ज्ञाननिर्धूतकल्मषाःपण्डिताः समदर्शिनःइहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनःलभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः मामेव ये प्रपद्यन्ते मायामेतां तरन्ति तेन मां दुष्कृतिनो मूढाः चतुर्विधा भजन्ते मांजरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदुः कृत्स्त्रंतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःमत्स्थानि सर्वभूतानिमहात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताःएवं सततयुक्ता ये भक्तास्त्वां पर्युपासतेअन्ये त्वेवमजानन्तःयज्ज्ञात्व मुनयः सर्वेनिर्मानमोहा जितसङ्गदोषाःविमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषःयतन्तो योगिनश्चैनंनष्टात्मानोऽल्पबुद्धयःत्रिविधा भवति श्रद्धा देहिनाम् इत्यादिभगवद्वचनेभ्योऽपि जीवानामनेकत्वमध्यवसीयते।क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतप्रकृतिं पुरुषं चैव विद्य्धनादी उभावपिममैवांशो जीवलोके जीवभूतः सनातनः इत्यादिवचनेष्वेकवचनं तु जात्यभिप्रायम्।एवमनेन जीवेनात्मनानुप्रविश्यवालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इत्यादिश्रुतिष्वपि।एको देवः सर्वभूतेषु गूढः इत्यादिश्रुतिस्तु परमात्मैकत्वप्रतिपादिका नतु जीवैकत्वप्रतिपादिका।केवलो निर्गुणश्च इत्यादिविशेषणेभ्यस्तथा च भाष्यंभेदस्तुपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः।एको देवः सर्वभूतेषु गूढः इत्यादिश्रुतिभ्य इत्यलं प्रासङ्गिकेन।