Sbg 7.14 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।7.14।।कथं खलु सत्त्वादिमात्रस्थिता भगवतस्तत्त्वं न विदुः इत्याह दैवीति। देवः क्रीडाकरः तत्र भवा दैवी क्रीडा ममेयमित्यर्थः। तेन सत्त्वादीनां वस्तुतः संविन्मात्रपरब्रह्मानतिरिक्ततायामपि यत् तदरिक्ततावगमनं ( N तदतिरिक्तभावगमनम्) तदेव गुणत्वं भोक्तृतत्त्वपारतन्त्र्यं भोग्यत्वम्। तच्च भेदात्मकं रूपं संसारिभिरनिर्वाच्यतया तान् प्रति मायारूपम्। अतो ये परमार्थब्रह्मप्रकाशविदः ते तदनतिरिक्तं विश्वं पश्यन्तो गुणाना सत्त्वादीनां गुणतालक्षणां भेदावभासस्वभावां मायाम् अतितरन्ति इति मामेव इत्येवकारस्याशयः। ये तु यथास्थित ( यथास्थितभेद ) भेदावभासमात्रं विदुः ते मायां नातिक्रामन्ति (S नातिवर्तन्ते) । तद्युक्तमुक्तम् न त्वहं तेषु इति।