Sbg 7.13 scjaya
Sanskrit Commentary By Sri Jayatritha ।।7.13।।ननु विज्ञाननिरूपणं प्रारभ्यत्रिभिः इत्यादिकं किमर्थमुच्यते इत्यत आह तर्ही ति।ये चैव 7।12 इति। विज्ञाननिरूपणोपसंहारवाक्ये सत्त्वादिगुणनिर्वृतानां भगवान्कारणमाश्रयश्च तदनाश्रयश्चेत्युक्तम्। पृ.371 तेनैव गुणातीत इति चोक्तप्रायम्। तस्यायमाक्षेपः। एवं गुणातीततया सगुणश्च ज्ञायस इति शेषः। एवमनुपलम्भविपरीतोपलम्भाभ्यामुक्तमसदिति भावः। विकारार्थतानिरासार्थमाह तादात्म्ये ति। मयटस्तादात्म्यार्थत्वं कुतः इत्यत आह तच्चे ति। तादात्म्ये प्रयोगं दर्शयितुमुपोद्धातमाह न ही ति। कार्यभूतेत्युपलक्षणम्। गुणप्राचुर्यादिकमपि तस्यां न सम्भवति। ततः किं इत्यत आह गुणे ति।दैवी ह्येषा गुणमयी मम माया 7।14 इति मायाया गुणमयीत्वमुच्यते। न च तत्र विकाराद्यर्थता सम्भवति ततः परिशेषतः तादात्म्यार्थता ग्राह्येत्यर्थः। अस्तु मयटस्तादातम्ये शक्तिः। अत्र विकारार्थतां परित्यज्य तद्ग्रहणे को हेतुः इति चेत् उच्यते विकारार्थताग्रहणेमामेभ्यः परं इत्यत्र गुणकार्येभ्य एव भगवतः परत्वमुक्तं स्यात् न तु गुणेभ्यः। अतस्तत्सङ्ग्रहाय तादात्म्यार्थताग्रहणम्। एवं तर्हि गुणेभ्य एव परत्वमुक्तं स्यात् न तु गुणकार्येभ्योऽपीति समानमित्यत आह सिद्धं चे ति। सिद्धं प्रमितम्। ततश्चगुणात्मकैः इत्युक्ते गुणानां तत्कार्याणां चोपादाने सति उभयपरत्वमुक्तं भवति कार्यधर्मादेरि ति। कार्यद्रव्यस्योपादानेन गुणक्रियाजातिपूर्वाणां धर्माणां गुण्यादिभिरित्यर्थः। भावशब्दस्यानेकार्थत्वात्तस्य विवक्षितमर्थमाह भावैरि ति। एवं सति सर्वपरत्वलाभादिति भावः। नन्वेवमप्येभिरिति पुरोवर्तिनामेव ग्रहणात् न सर्वपरत्वसिद्धिरित्यत आह सर्व इति। प्रमितपरामर्शोऽयं न पुरोवर्तिमात्रस्येति भावः। जगन्मोहितमित्यलं किमिदमित्यनेनेत्यत आह ज्ञानी ति। व्यवहारपतितमित्यर्थः। ननु भगवद्विषयस्य सगुणत्वमोहस्य कथं गुणात्मकाः पदार्थाः कारणं इत्यत आह गुणमये ति। देहत्वादिहेतुनेति शेषः। मायेति गुणमयानां ग्रहणम्। मोहितो जनः। अत्र प्रमाणमाह जगाद चे ति। आदिपदेनेन्द्रियादिग्रहणम्। यदर्थं तादात्म्यार्थग्रहणं कृतं तदाह एभ्य इति। ननु भगवतो गुणातीतत्वे प्रमिते तदर्थोऽयं श्रमः सफलः स्यात्। तदेव कुतः इत्यत आह गुणेभ्यश्चे ति।