Sbg 6.9 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।6.9।।समत्वमेव स्तौति सुहृदिति। सुहृत् प्रत्युपकारमनपेक्ष्योपकर्ता मित्रं स्नेहवान् अरिः शत्रुः उदासीन उभयत्र पक्षपातशून्यः मध्यस्थः उभयहितैषी द्वेष्य आत्मनोऽप्रियः बन्धुः संबन्धी तेषु साधुषु पुण्यकृत्सु पापेषु पापाचारेषु कस्य किं कर्मेत्यनालोचयन् तेषु सर्वेषु यः समबुद्धिः स विशिष्यते।