Sbg 6.43 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।6.43।।यदुत्तमतरं जन्मोक्तं तस्योत्तमत्वे हेत्वन्तरमाह यस्मादिति। बुद्ध्येत्यात्मविषययेति शेषः। पूर्वस्मिन्देहे भवं तत्रानुष्ठितसाधनविशेषयुक्तमित्यर्थः। तर्हि यथोक्तजन्मनि साधनानुष्ठानमन्तरेणैव बुद्धिसंबन्धः स्यादित्याशङ्क्याह यतते चेति। प्रयत्नः श्रवणाद्यनुष्ठानविषयः।