Sbg 6.40 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।6.40।।अत्र निर्णयम् (S निर्णयः)
पार्थेति। न तस्य योगभ्रष्टस्य इह लोके परलोके (S परत्र) वा नाशोऽस्ति अनष्टश्रद्धत्वात् इति भावः(K adds तस्य लोकद्वयाविनाशिनः after भावः)। स हि कल्याणं भगवन्मार्गलक्षणम् कृतवान्। न च तत् अग्निष्टोमादिवत् क्षयि।