Sbg 6.39 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।6.39।। एतत् मे मम संशयं कृष्ण छेत्तुम् अपनेतुम् अर्हसि अशेषतः। त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न संभवति। अतः त्वमेव छेत्तुमर्हसि इत्यर्थः।। श्रीभगवानुवाच