Sbg 6.33 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।6.33।।अर्जुन उवाच यः अयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन च अत्यन्तभिन्नतया एतावन्तं कालम् अनुभूतेषु सर्वेषु आत्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया च ईश्वर साम्येन सर्वत्र समदर्शनरूपो योगः त्वया उक्तः एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसः चञ्चलत्वात्।