Sbg 6.33 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।6.33।।एतादृशं योगमशक्यं मन्यमानस्तदुपायं ध्रुवं जिज्ञासुरर्जुन उवाच। योऽयं साम्येन समत्वलक्षणो योगस्त्वया प्रोक्तएतस्य स्थिरां निश्चलां स्थितिमहं न पश्यामि नोपलमे। चञ्चलत्वान्मनस इति शेषः। मधुसूदनेति संबोधयन् तमोरजसो सूदनेन मम चित्तं त्वमचञ्चलं संपादयितुं समर्थोऽसीति सूचयति।