Sbg 6.27 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।6.27।।एवमात्मवशे मनसि किं स्यादित्याशङ्क्याह प्रशान्तेति। हि यस्मादेनं प्रशान्तमनसं प्रकर्षेणोपरतचेतसं योगिनमेकाग्रताभूमावुत्तमं सुखं संप्रज्ञातसमाधिफलभूतमुपैति। भौतिकानां बाह्यानां मानोरथिकानामान्तराणां च विषयाणां त्यागात् शान्तरजसं प्रक्षीणमोहादिक्लेशं ब्रह्मभूतं सद्वस्तुरूपं अकल्मषं धर्माधर्मवर्जितम्। यथोक्तं योगभाष्येयस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति कर्मबन्धनानि श्लथयति निरोधमभिमुखीकरोति क्षिणोति च क्लेशान् स संप्रज्ञातो योग इत्याख्यायते इति। एतेनात्मसंस्थं मनः कृत्वेति व्याख्यातम्।