Sbg 6.24 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।6.24।।अथ शमदमोपरमसमाधानानि क्रमेण श्लोकद्वयेन विधत्ते संकल्पेति। संकल्प इदं मे भूयादिति चेतोवृत्तिस्तत उद्भवो येषां तान्कामान्काम्यमानान्विषयानशेषतो वासनोच्छेदपूर्वकं संकल्पनिरोधेन त्यक्त्वा। एतेनान्तरिन्द्रियनिग्रहलक्षणः शम उक्तः। बाह्येन्द्रियनिग्रहलक्षणं दममाह मनसैवेति। विषयदोषदर्शिना मनसैव सर्वतः सर्वप्रकारेण श्रोत्रादिकमिन्द्रियग्रामं समन्ततः सर्वेभ्यो विषयेभ्यो विनियम्योपरमेदित्युत्तरेणान्वयः।