Sbg 6.24 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।6.24।।साधनान्तराण्यपि विधत्ते संकल्पेति। संकल्पौऽशोभनेऽपि इहामुत्रार्थभोगेऽविचारजनितः शोभनाध्यासः स प्रभवो येषां कामानां इदं मे स्यादिदं मे स्यादित्येवंरुपाणमिच्छाभेदानां ते तान्सर्वान्ब्रह्मलोकपर्यन्तानशेषतो निर्लेपेन लेपरुपेण शिष्टया वासनया सहितान् वितारेण शोभनाध्यासनिवृत्त्या त्यक्त्वा परित्यज्य। किंच मनसैवेन्द्रियग्रामं चक्षुरादीन्द्रियसमुदायं समन्ततः समन्ताद्विषयसमूहान्नयम्य नियमनं कृत्वा योगो योक्तव्य इति पूर्वेण शनैः शनैरुपरमेदिति परेण वान्वयः।