Sbg 6.24 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।6.24।।इतश्च योगस्य कर्तव्यत्वमिति प्रतिजानीते किञ्चेति। केन क्रमेण कर्तव्यत्वमित्यपेक्षायामाह संकल्पेति। संकल्पः शोभनाध्यासः। सर्वानित्युक्त्वा पुनरशेषत इति पुनरुक्तिरित्याशङ्क्याह निर्लेपेनेति। यथा शेषो न भवति तथा सर्वेषां कामानां शोभनाध्यासाधीनानां त्यागस्य योगानुष्ठानशेषत्ववद्विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यमित्याह किञ्चेति।