Sbg 6.22 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।6.22।।अचलत्वमेवोपपादयति यमिति। यमात्मसुखरूपलाभं लब्ध्वा ततोऽधिकमपरं लाभं न मन्यते न चिन्तयति तस्यैव निरतिशयसुखत्वात् यस्मिंश्च स्थितो महतापि शीतोष्णादिदुःखेन न विचाल्यते नाभिभूयते। एतेनेष्टनिवृत्तिफलेनापि योगलक्षणमुक्तं द्रष्टव्यम्।