Sbg 6.22 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।6.22।।प्रकारान्तरेण प्रकृतं योगं विशिनष्टि किञ्चेति। आत्मलाभान्न परं विद्यत इति स्मृत्वा व्याचष्टे यमात्मलाभमिति। लाभान्तरं पुरुषार्थभूतं ततस्तस्मादात्मलाभादिति यावत्। तं विद्यादित्युत्तरत्र संबन्धः। यस्मिन्नित्याद्यवतारयति किञ्चेति। अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन्स्थितो योगी तं योगं विद्यादिति पूर्ववत्।