Sbg 6.21 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।6.21।। सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्या त्यन्तिकम् अनन्तमित्यर्थः यत् तत् बुद्धिग्राह्यं बुद्ध्यैव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितमित्यर्थः वेत्ति तत् ईदृशं सुखमनुभवति यत्र यस्मिन् काले न च एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते इत्यर्थः।।किञ्च