Sbg 6.21 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।6.21।।तेषामुत्पत्तिप्रकारमाह सुखमिति। यत्र अवस्थाविशेषे तथाभूतसेवानुभव जाताग्रिमविविधमनोरथरू पे৷৷৷৷৷৷৷৷৷৷৷৷৷৷. आत्यन्तिकमतिशयितं जीवभावप्राप्तिफलात्मकं सुखं बुद्धिग्राह्यं भावात्मकस्वरूपात्मबुद्धिग्राह्यमतीन्द्रियं लौकिकेन्द्रियसम्बन्धाविषयं यत् तद्वेति। च पुनः अयं पुञ्जीवः यत्रावस्थायां तत्त्वतो भावात्मकदास्यफले रसकोटिस्फूर्तिरहितभावेन स्थितो नैव चलतितं विद्यात् 23 इत्य भिभ() श्लोकेनैव सम्बन्धः।