Sbg 6.21 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।6.21।।योगसिद्धिकालं प्रकारान्तरेण प्रकटयति किञ्चेति। बुद्धिशब्दः स्वानुभवविषयः। इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेरतीन्द्रियमिति पुनरुक्तमित्याशङ्क्याह अविषयेति। पदच्छेदः नचेत्यादि। अपेक्षितपूरणम् आत्मस्वरूप इति। तस्मात्तत्त्वत इति संबन्धः नैवेत्येवकारसंबन्धोक्तिः चकारः सप्तम्या संबन्धनीयः। यत्रेति पूर्ववत्संबन्धः।