Sbg 6.1 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।6.1।।चित्ते शुद्धेऽपि न ध्यानं विना संन्यासमात्रतः। मुक्तिः स्यादिति षष्ठेऽस्मिन्ध्यानयोगो वितन्यते।।1।।
पूर्वाध्यायान्ते संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः। तत्र तावत्सर्वकर्माणि मनसेत्यारभ्य संन्यासपूर्विकाया ज्ञाननिष्ठायास्तात्पर्येणाभिधानाद्दुःखस्वरूपत्वाच्च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासादपि श्रेष्ठत्वेन कर्मयोगं स्तौति। श्रीभगवानुवाच
अनाश्रित इति द्वाभ्याम्।
कर्मफलमनाश्रितोऽनपेक्षमाणः अवश्यं कर्तव्यतया विहितं कर्म यः करोति स एव संन्यासी योगी च नतु निरग्निः अग्निसाध्येष्टाख्यकर्मत्यागी न चाक्रियोऽनग्निसाध्यपूर्ताख्यकर्मत्यागी च।