Sbg 6.1 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।6.1।।कृत्वाऽपि सर्वसन्न्यासं जडवच्चरणादिह।
न भक्तिं प्राप्नुयात्तस्माद्ध्यानयोगमुवाच ह।।पूर्वाध्याये सन्न्यासमुक्त्वाऽध्यायान्ते इच्छादिविहीनो विषयमोक्षेच्छुर्विषयभोक्तृत्वात्तेभ्यो विमुक्तो भवेदित्युक्तम् ततस्तद्विमुक्तिरेव न फलं किन्तु तद्विमुक्त्या भगवद्ध्यानेन भगवदावेशः फलमिति ध्यानस्वरूपमाह भगवान् अनाश्रित इति। कर्मफलं स्वर्गादिरूपमनाश्रितः कार्यं कर्म भगवदुक्तत्वादवश्यकर्तव्यं कर्म सेवादिरूपं यः करोति स सन्न्यासी त्यागवान् च पुनर्योगी च भवतीति शेषः। न निरग्निः न गार्हपत्यादित्यागवान् सन्न्यासी। न च अक्रियः न सेवादिरहितो योगी भवतीत्यर्थः।