Sbg 6.1 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।6.1।।श्रीवेङ्कटेशाय नमः। सङ्गतिं सूचयन्नेतदध्यायप्रतिपाद्यमर्थमाह ज्ञानान्तरङ्गमि ति।योगे त्विमां शृणु 2।39 इति प्रतिज्ञाय द्वितीयषट्के वक्ष्यमाणं भगवज्ज्ञानं प्रति कर्मयोगस्य बहिरङ्गत्वात्स प्राधान्येनातीते ग्रन्थे प्रतिपादितः। तत्साध्यत्वाज्ज्ञानान्तरङ्गत्वाच्चावसरप्राप्तं समाधियोगमाहानेन षष्ठाध्यायेनेत्यर्थः। आसनादीनामङ्गानां वक्ष्यमाणत्वेऽपि तेषां समाध्यर्थत्वात् प्राधान्येन समाधियोगस्य ग्रहणम्। पञ्चमान्तोक्तस्य प्रपञ्चोऽयमित्यदोषः।गृहस्थस्यापि स्तुत्यर्थमुपचरितं सन्न्यासित्वं योगित्वं चाद्येन श्लोकेनोच्यते इति परकीयतात्पर्यकथनमसदिति भावेनाह विवक्षितमि ति। समाधियोगं विधातुं तत्राधिकारिणं ज्ञापयिष्यन् साङ्ख्याद्यभिमततदधिकारिनिरासाय तद्विशेषणं प्राग्विवक्षितं कामादिवर्जनलक्षणं सन्न्यासमीश्वराराधनस्वकर्मानुष्ठानलक्षणेन योगेन सहाहेत्यर्थः। यदि हि सन्न्यासो यत्याश्रमोऽत्र विवक्षितः स्यात् योगश्च कश्चिद्गृहस्थासम्भवी स्यात् तदोपचारेण तत्स्तुतिरियम्। न चैवमिति भावः। न केवलं निरग्निरक्रियश्चतुर्थाश्रमी सन्न्यासी योगी च किन्त्वनाश्रित इत्याद्युक्तो गृहस्थोऽपीति (शां.) परकीयां योजनां निराकरोति चतुर्थे ति। अत्रैव स्पष्टं वाक्यान्तरं पठति अग्निरि ति। चस्त्वर्थः। अतो न परकीया योजना युक्तेति शेषः। तर्हि कथं इत्यत आह तस्मादि ति परकृतयोजनाया निरस्तत्वात्। ननु निरग्नेरक्रियस्य चतुर्थाश्रमिणोऽपि सन्न्यासित्वाद्योगित्वाच्च कथं न निरग्निरित्याद्युक्तं इत्यतो वाह चतुर्थाश्रमिणोऽपी त्यादि। न भवत्येवेति युक्तमिति शेषः। अनग्नित्वादिप्रवादश्च बाह्याग्न्याद्यभावनिबन्धन इति भावः।