Sbg 6.19 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।6.19।। निवातस्थो दीपो यथा न इङ्गते न चलति अचलः सप्रभः तिष्ठति यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सा उपमा।निवातस्थतया निश्चलसप्रभदीपवन्निवृत्तसकलेतरमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठति इत्यर्थः।