Sbg 6.17 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha ।। 6.17 उचितदेशप्रभृति परमात्मचिन्तनपर्यन्तं ह्यत्र योगोपकरणमेव अतःअन्यदपीत्युक्तम्। योगोपकरणं योगोपकारकम्। अत्यशनादेर्योगविरोधित्वंनात्यश्नतः इति श्लोकस्यार्थः। मिताहारादेस्तु योगोपयुक्तत्वंयुक्ताहार इति श्लोकेनोच्यत इति व्यतिरेकतोऽन्वयतश्च एक एवार्थः स्थिरीक्रियत इति विभागमभिप्रेत्याह अत्यशनेति।युक्ताहार इति श्लोके विहारायासयोरपि उक्तत्वात् पूर्वत्रापि हि तावभिप्रेताविति दर्शयितुंअतिविहाराविहारावत्यायासानायासावित्युक्तम्।जाग्रतः इत्यत्राप्यतिरनुषञ्जनीयः। पूर्वश्लोकोक्तातिशब्दप्रतियोगिकत्वाद्युक्तशब्दो मितपर इत्यभिप्रायेणमिताहारेत्यादिकमुक्तम्। श्रूयते हि यद्ध्यात्मसम्मितमन्नं तदवति तन्न हिनस्ति तद्यत्कनीयो न तदवति इति। स्मरन्ति चउदरस्यार्धमन्नस्य तृतीयमुदकस्य तु। वायोः सच्चरणार्थं तु चतुर्थमवशेषयेत् इति। अतो न्यूनाधिकादिसमस्तदोषराहित्यं युक्तशब्देनाभिप्रेतम्। द्वन्द्वात्पूर्वमपि परमिव प्रत्येकमन्वेतव्यम्। विहारशब्दः सञ्चारपरः तन्द्रीपरिहारार्थविनोदपरो वा। पारिशेष्यादौचित्याच्च चेष्टाशब्दार्थोऽत्र श्रमहेतुरायासः। दुःखशब्दासङ्कोचाद्योगसामर्थ्याच्चसकलेति विशेषितम्। तत्फलितमाह बन्धनाशन इति। एवंविधस्य योगो दुःखहा भवतीत्यन्वये योगस्य पूर्वसिद्धताभ्रमः स्यात् तद्वयदासायसम्पन्नो भवतीत्युक्तम्।