Sbg 6.16 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।6.16।।योगाभ्यासनिष्ठस्याहारादिनियममाह नेति द्वाभ्याम्। अत्यन्तमधिकं भुञ्जानस्य। एकान्तमत्यन्तमभुञ्जानस्यापि योगः समाधिर्न भवति। तथातिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति।